यजुर्वेद - अध्याय 4/ मन्त्र 32
ऋषिः - वत्स ऋषिः
देवता - अग्निर्देवता
छन्दः - निचृत् आर्षी अनुष्टुप्,
स्वरः - गान्धारः
3
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम्। यत्रैत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑॥३२॥
स्वर सहित पद पाठसूर्य्य॑स्य। चक्षुः॑। आ। रो॒ह॒। अ॒ग्नेः। अ॒क्ष्णः। क॒नीन॑कम्। यत्र॑। एत॑शेभिः। ईय॑से। भ्राज॑मानः। वि॒प॒श्चितेति॑ विपः॒ऽचिता॑ ॥३२॥
स्वर रहित मन्त्र
सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकम् । यत्रैत्रशेभिरीयसे भ्राजमानो विपश्चिता ॥
स्वर रहित पद पाठ
सूर्य्यस्य। चक्षुः। आ। रोह। अग्नेः। अक्ष्णः। कनीनकम्। यत्र। एतशेभिः। ईयसे। भ्राजमानः। विपश्चितेति विपःऽचिता॥३२॥
विषयः - पुनस्ते कीदृशा इत्युपदिश्यते॥
सपदार्थान्वयः - हे परमेश्वर ! यत्र यस्मिन् त्वमेतशेभिः विज्ञानवेगादिभिरागमकैर्गुणैरश्वैःभ्राजमानः प्रकाशमान: विपश्चिता मेधाविना विदुषा ईयसे विज्ञायसे । यत्र यस्मिन् त्वं सूर्यस्य सवितृमण्डलस्य विद्युतो वा अग्नेः भौतिकस्य अक्ष्णः दर्शनसाधकस्य कनीनकं कनति=प्रकाशते येन तत् चक्षुः दर्शकम् आरोह समन्ताद् दर्शयसि तत्र वयं त्वामुपासीमहि ॥ [प्राणो विद्युच्च] यत्र यस्मिन् प्राणो विद्युद्वैतशेभिः विज्ञानवेगादिभिरागमकैर्गुणैरश्वैःविपश्चिता मेधाविना विदुषा भ्राजमानः प्रकाशमानः [ईयसे]=विज्ञायते । यत्र यस्मिन् स, सा च सूर्यस्य सवितृमण्डलस्य विद्युतो वा अग्नेः भौतिकस्य अक्ष्णः दर्शनसाधकस्य कनीनकं कनति=प्रकाशते येन तत् चक्षुः दर्शकम् आरोह दर्शयति तत्र वयं तं तां च युञ्जयाम ।। ४ । ३२ ।। [हे परमेश्वर! यत्र त्वमेतशेभिर्भ्राजमानो विपश्चितेयसे, यत्र प्राणो विद्युद्वैतशेभिर्विपश्चिता भ्राजमानो विज्ञायते तत्र त्वं, स, साच.......आरोह=समन्ताद् दर्शयति वा तत्र वयं त्वां, तं, तां चोपासीमहि, युञ्ज्याम वा]
पदार्थः -
(सूर्यस्य) सवितृमण्डलस्य विद्युतो वा (चक्षुः) दर्शकम् (आ) समन्तात् (रोह) दर्शयसि दर्शयति वा (अग्नेः) भौतिकस्य (अक्ष्णः) दर्शनसाधकस्य (कनीनकम्) कनति=प्रकाशते येन तत् । अत्र कनीधातोर्बाहुलकादौणादिक ईनक प्रत्यय: (यत्र) यस्मिन् (एतशेभिः) विज्ञानवेगादिभिरागमकैर्गुणैरश्वैः। एतश इत्यश्वनामसु पठितम् ॥ निघं० १ । १४ ॥ (ईयसे) विज्ञायसे विज्ञायते वा (भ्राजमानः) प्रकाशमानः (विपश्चिता) मेधाविना विदुषा । विपश्चिदिति मेधाविनामसु पठितम् ॥ नि० ३ ।१५ ॥ अयं मन्त्रः शत० ३।३।४ । ८ व्याख्यातः ॥ ३२॥
[ईश्वरः]
भावार्थः - अत्र श्लेषालङ्कारः ॥ मनुष्यैर्यथा विद्वद्भिरीश्वरः प्राणो विद्युच्च विज्ञायोपास्यते संप्रयुज्यते च तथैव विज्ञायोपास्य उपयोक्तव्यः संप्रयोजितव्य च ।। ४ । ३२।।
विशेषः - वत्सः । अग्निः=ईश्वरः, प्राणो विद्युच्च॥ निचृदार्ष्यनुष्टुप् ।गान्धारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal